Instructions Video for Lekhanam
Use "Help" menu selection regarding how to use this web document.
Use "Menu" to select any skandha, any adhyaya.
Use "Language" to select any of the published languages.
Update 2.1 Dated 6 Mar 2025

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न-वदनं ध्यायेत् सर्व-विघ्नोप-शान्तये ॥

नमो नम: सद्गुरुभ्य: सद्गुरुभ्यो नमो नम: ।
नमो नम: सद्गुरुभ्य: सद्गुरुभ्यो नमो नम: ॥

ज्ञान वैराग्य सम्पूर्णान् हरि भक्ति परायणान् ।
पूर्वाचार्यान् अहं वन्दे सम्प्रदाय प्रवर्तकान् ॥

प्रह्लाद-नारद-पराशर-पुण्डरीक
व्यासाम्बरीष-शुक-शौनक-भीष्मदाल्भ्यान् ।
रुक्माङ्गदार्जुण-वसिष्ठ-विभीषणादीन्
पुण्यानिमान् परमभागवतान् स्मरामि ॥

काषाय-दण्डकरकादि-विभूषिताङ्ग
वैराग्यभाग्य-जलधे करुणानिधे त्वम् ।
संसार-कूप-पतितस्य समाकुलस्य
बोधेन्द्र-देव मम देहि करावलम्बम् ॥

हरे रामेति कृष्णेति नाम-संकीर्तनम् सदा ।
लोकक्षेमाय कुर्वन्तं प्रेमिकं सद्गुरुं भजे ॥

कलये सुन्दराकारं सदैक प्रियदर्शनम् ।
अज्ञान नाशकं देवं सद्गुरुं मुरळीधरम् ॥

जन्माद्यस्य यतो ऽन्वयाद्-इतरतश्-चार्थेष्-वभिज्ञ: स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरय: ।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो ऽमृषा ।
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥

धर्म: प्रोज्झितकैतवो ऽत्र परमो निर्मत्सराणां सतां ।
वेद्यं वास्तवम् अत्र वस्तु शिवदं तापत्रयोन्मूलनम् ॥
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वर: ।
सद्यो हृद्यवरुध्यते ऽत्र कृतिभि: शुश्रूषुभिस्-तत्क्षणात् ॥

निगमकल्पतरोर्-गलितं फलं ।
शुक-मुखाद्-अमृत-द्रव-संयुतम् ॥
पिबत भागवतं रसम् आलयं ।
मुहुरहो रसिका भुवि भावुका: ॥

यं प्रव्रजन्तम् अनुपेतम् अपेतकृत्यं ।
द्वैपायनो विरहकातर आजुहाव ॥
पुत्रेति तन्मयतया तरवो ऽभिनेदु: ।
तं सर्वभूत-हृदयं मुनिमानतो ऽस्मि ॥

य: स्वानुभावम् अखिलश्रुति-सारम् एकम् ।
अध्यात्मदीपम् अतिति-तीर्षतां तमो ऽन्धम् ॥
संसारिणां करुणयाह पुराणगुह्यं ।
तं व्याससूनुम् उपयामि गुरुं मुनीनाम् ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

कृष्णाय वासुदेवाय देवकिनन्दनाय च ।
नन्दगोप-कुमाराय गोविन्दाय नमो नम: ॥

कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत-क्लेश-नाशाय गोविन्दाय नमो नम: ॥

नाम-सङ्कीर्तनं यस्य सर्व-पाप-प्रणाशनम् ।
प्रणामो दु:ख-शमनस्तं नमामि हरिं परम् ॥